The Madhurasthakam by Sripad Vallabha-acharya |
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरं
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरं
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरं
वेणुर्मधुरो रेणुर्मधुर:
पाणिर्मधुर: पादौ मधुरौ
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरं
गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरं
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरं
करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरं
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरं
गुंजा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरं
गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरं
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरं
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरं
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरं
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरं
https://youtu.be/NVE2qeBYvb4?si=Yy7KVLeZluBXPhfO
Lyrics: Sripad Vallabhacharya
Singer : Pt.Jasrsj

No comments:
Post a Comment