Thursday, June 23, 2022

Adharam Madhuram Vadanam Madhuram / अधरं मधुरं वदनं मधुरं

 

The Madhurasthakam by Sripad Vallabha-acharya
The Madhurasthakam uses just one adjective, "madhuram", meaning sweet or beautiful etc., to describe the lovely attributes of Lord Sri Krishna's beautiful form, who is the master of Sweetness and Sweetness personified. 

अधरं मधुरं वदनं मधुरं 
नयनं मधुरं हसितं मधुरं

हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरं

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरं
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरं

वेणुर्मधुरो रेणुर्मधुर:
पाणिर्मधुर: पादौ मधुरौ
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरं

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरं
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरं

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरं
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरं

गुंजा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरं

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरं
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरं

गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरं

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरं
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरं

No comments:

Post a Comment

He Shivanandana | ಹೇ ಶಿವನಂದನ ಹೇ ಶಿವನಂದನ

📜 Original Kannada Lyrics: ಹೇ ಶಿವನಂದನ ಹೇ ಶಿವನಂದನ ಹೇ ಗಿರಿಜಾಸುತೆ ಹೇ ಗಿರಿಜಾಸುತೆ ವಿಘ್ನವಿನಾಶಕ ಪಾಲಯಮಾಂ ಪಾರ್ವತೀಚ ನಂದನ ಮೋರಯಾ ಗಜಾನನ ಗಜವದನ ವಿಘ್ನವಿನಾಶ...